|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.14. अध्यायः 014
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरंप्रति द्रौपदीवचनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-14-0x(5742)(70431)
अव्याहरति कौन्तेये धर्मराजे युधिष्ठिरे।
भ्रातृणां ब्रुवतां तांस्तान्विविधान्वेदनिश्चयान्॥ 12-14-1(70432)
महाभिजनसंपन्ना श्रीमत्यायतलोचना।
अभ्यभाषत राजानं द्रौपदी योषितां वरा॥ 12-14-2(70433)
आसीनमृषभं राज्ञां भ्रातृभिः परिवारितम्।
सिंहशार्दूलसदृशैर्वारणैरिव यूथपम्॥ 12-14-3(70434)
अभिमानवती नित्यं विशेषेण युधिष्ठिरे।
लालिता सततं राज्ञा धर्माधर्मनिदर्शिनी॥ 12-14-4(70435)
आमन्त्रयित्वा सुश्रोणी साम्ना परमवल्गुना।
भर्तारमभिसंप्रेक्ष्य ततो वचनमब्रवीत्॥ 12-14-5(70436)
द्रौपद्युवाच। 12-14-6x(5743)
इमे ते भ्रातरः पार्थ शुष्यन्ते स्तोकका इव।
वावाश्यमानास्तिष्ठन्ति न चैनानभिनन्दसे॥ 12-14-6(70437)
नन्दयैतान्महाराज मत्तानिव महाद्विपान्।
उपपन्नेन वाक्येन सततं दुःखभागिनः॥ 12-14-7(70438)
कथं द्वैतवने राजन्पूर्वमुक्त्वा तथा वचः।
भ्रातॄनेतान्स्म सहिताञ्शीतवातातपार्दितान्॥ 12-14-8(70439)
वयं दुर्योधनं हत्वा मृधे भोक्ष्याम मेदिनीम्।
संपूर्णां सर्वकामानामाहवे विजयैषिणः॥ 12-14-9(70440)
नृवीरांश्च रथान्हत्वा निहत्य च महागजान्।
संस्तीर्य च रथैर्भूमिं ससादिभिररिंदमाः॥ 12-14-10(70441)
यजेभ विविधैर्यज्ञैः समृद्धैराप्तदक्षिणैः।
वनवासकृतं दुःखं भविष्यति सुखाय नः॥ 12-14-11(70442)
इत्येतानेवमुक्त्वा त्वं स्वयं धर्मभृतां वर।
कथमद्य पुनर्वीर विनिहंसि मनांसि नः॥ 12-14-12(70443)
न क्लीबो वसुधां भुङ्क्ते न क्लीबो धनमश्नुते।
न क्लीबस्य गृहे पुत्रा मत्स्याः पङ्क इवासते॥ 12-14-13(70444)
नादण्डः क्षत्रियो भाति नादण्डो भूमिमश्नुते।
नादण्डस्य प्रजा राज्ञः सुखं विन्दन्ति भारत॥ 12-14-14(70445)
`सदेवासुरगन्घर्वैरप्सरोभिर्विभूषितम्।
रक्षोभिर्गुह्यकैर्नागैर्मनुष्यैश्च विभूषितम्॥ 12-14-15(70446)
त्रिवर्गेण च संपूर्णं त्रिवर्गस्यागमेन च।
दण्डेनाभ्याहृतं सर्वं जगद्भोगाय कल्पते॥ 12-14-16(70447)
स्वायंभुवं महीपाल आगमं शृणु शाश्वतम्।
विप्राणां विदितश्चायं तव चैव विशांपते॥ 12-14-17(70448)
अराजके हि लोकेऽस्मिन्सर्वतो विद्रुते भयात्।
रक्षार्थमस्य लोकस्य राजानमसृजत्प्रभुः।
महाकायं महावीर्यं पालने जगतः क्षमम्॥ 12-14-18(70449)
अनिलाग्नियमार्काणामिन्द्रस्य वरुणस्य च।
चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः॥ 12-14-19(70450)
यस्मादेषां सुरेन्द्राणां संभवत्यंशतो नृपः।
तस्मादभिभवत्येष सर्वभूतानि तेजसा॥ 12-14-20(70451)
तपत्यादित्यवच्चैव चक्षूंषि च मनांसि च।
च चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम्॥ 12-14-21(70452)
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमश्च धर्मराट्।
स कुबेरः स वरुणः स महेन्द्रः प्रतापवान्॥ 12-14-22(70453)
पितामहस्य देवस्य विष्णोः शर्वस्य चैव हि।
ऋषीणां चैव सर्वेषां तस्मिंस्तेजः प्रतिष्ठितम्॥ 12-14-23(70454)
बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः।
महती देवता ह्येषा नररूपेण तिष्ठति॥ 12-14-24(70455)
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम्।
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम्॥ 12-14-25(70456)
धृतराष्ट्रकुलं दग्धं क्रोधोद्भूतेन वह्निना।
प्रत्यक्षमेतल्लोकस्य संशयो हि न विद्यते॥ 12-14-26(70457)
कुलजो वृत्तसंपन्नो धार्मिकश्च महीपतिः।
प्रजानां पालने युक्तः पूज्यते दैवतैरपि॥ 12-14-27(70458)
कार्यं योऽवेक्ष्य शक्तिं च देशकालौ च तत्वतः।
कुरुते धर्मसिद्ध्यर्थं वैश्वरूप्यं पुनः पुनः॥ 12-14-28(70459)
तस्य प्रसादे पझा श्रीर्विजयश्च पराक्रमे।
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः॥ 12-14-29(70460)
तं यस्तु द्वेष्टि संमोहात्स विनश्यति मानवः।
तस्य ह्याशुविनाशाय राजाऽपि कुरुते मनः॥ 12-14-30(70461)
तस्माद्धर्मं यदिष्टेषु स व्यवस्यति पार्थिवः।
अनिष्टं चाप्यनिष्टेषु तद्धर्मं न विचालयेत्॥ 12-14-31(70462)
तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम्॥
ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः॥ 12-14-32(70463)
तस्य सर्वाणि भूतानि स्थावराणि चराणि च।
भयाद्भोगाय कल्पन्ते धर्मान्न विचलन्ति च॥ 12-14-33(70464)
देशकालौ च शक्तिं च कार्यं चावेक्ष्य तत्वतः।
यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु॥ 12-14-34(70465)
स राजा पुरुषो दण्डः स नेता शासिता च सः।
वर्णानामाश्रमाणां च धर्मप्रभुरथाव्ययः॥ 12-14-35(70466)
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः॥ 12-14-36(70467)
सुसमीक्ष्य धृतो दण्डः सर्वा रञ्जयति प्रजाः।
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वशः॥ 12-14-37(70468)
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः।
जले मत्स्यानिवाभक्ष्यन्दुर्बलान्बलवत्तराः॥ 12-14-38(70469)
काकोऽद्याच्च पुरोडाशं श्वा चैवावलिहेद्धविः।
स्वामित्वं न क्वचिच्च स्यात्प्रपद्येताधरोत्तरम्॥ 12-14-39(70470)
सर्वो दण्डजितो लोको दुर्लभस्तु शुचिर्नरः।
दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते॥ 12-14-40(70471)
देवदानवगन्धर्वा रक्षांसि पतगोरगाः।
तेऽपि भोगाय कल्पन्ते दण्डेनैवाभिपीडिताः॥ 12-14-41(70472)
दूष्येयुः सर्ववर्णाश्च भिद्येरन्सर्वसेतवः।
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात्॥ 12-14-42(70473)
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा।
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति॥ 12-14-43(70474)
आहुस्तस्य प्रणेतारं राजानं सत्यवादिनम्।
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम्॥ 12-14-44(70475)
तं राजा प्रणयन्सम्यक्स्वर्गायाभिप्रवर्तते।
कामात्मविषयी क्षुद्रो दण्डेनैव निहन्यते॥ 12-14-45(70476)
दण्डो हि सुमहातेजा दुर्धरश्चाकृतात्मभिः।
धर्माद्विचलितं हन्ति नृपमेव सबान्धवम्॥ 12-14-46(70477)
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम्।
अन्तरिक्षगतांश्चैव मुनीन्देवांश्च हिंसति॥ 12-14-47(70478)
सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना।
अशक्यो न्यायतो नेतुं विषयांश्चैव सेवता॥ 12-14-48(70479)
शुचिना सत्यसन्धेन नीतिशास्त्रानुसारिणा।
दण्डः प्रणेतुं शक्यो हि सुसहायेन धीमता॥ 12-14-49(70480)
स्वराष्ट्रे न्यायवर्ती स्याद्भृशदण्डश्च शत्रुषु।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः॥ 12-14-50(70481)
एवंवृत्तस्य राज्ञस्तु शिलोञ्छेनापि जीवतः।
विस्तीर्येत यशो लोके तैलबिन्दुरिवाम्भसि॥ 12-14-51(70482)
अतस्तु विपरीतस्य नृपतेरकृतात्मनः।
संक्षिप्येन यशो लोके घृतबिन्दुरिवाम्भसि॥ 12-14-52(70483)
देवदेवेन रुद्रेण ब्रह्मणा च महीपते।
विष्णुना चैव देवेन शक्रेण च महात्मना॥ 12-14-53(70484)
लोकपालैश्च भूतैश्च पाण्डवैश्च महात्मभिः।
धर्माद्विचलिता राजन्धार्तराष्ट्रा निपातिताः।
अधार्मिका दुराचाराः ससैन्या विनिपातिताः॥ 12-14-54(70485)
तान्निहत्य न दोषस्ते स्वल्पोऽपि जगतीपते।
छलेन मायया वाऽथ क्षत्रधर्मेण वा नृप॥' 12-14-55(70486)
मित्रता सर्वभूतेषु दानमध्ययनं तपः।
ब्राह्मणस्यैव धर्मः स्यान्न राज्ञो राजसत्तम॥ 12-14-56(70487)
असतां प्रतिषेधश्च सतां च परिपालनम्।
एष राज्ञां परो धर्मः समरे चापलायनम्॥ 12-14-57(70488)
यस्मिन्क्षमा च क्रोधश्च दानादाने भयाभये।
निग्रहानुग्रहौ चोभौ स वै धर्मविदुच्यते॥ 12-14-58(70489)
न श्रुतेन न दानेन न सांत्वेन न चेज्यया।
त्वयेयं पृथिवी लब्धा न संकोचेन चाप्युत॥ 12-14-59(70490)
यत्तद्बलममित्राणां तथा वीरसमुद्यतम्।
हस्त्यश्वरथसंपन्नं त्रिभिरङ्गैरनुत्तमम्॥ 12-14-60(70491)
रक्षितं द्रोणकर्णाभ्यामश्वत्थाम्ना कृपेण च।
तत्त्वया निहतं वीर तस्माद्भुङ्क्ष्व वसुंधराम्॥ 12-14-61(70492)
जम्बूद्वीपो महाराज नानाजनपदैर्युतः।
त्वया पुरुषशार्दूल दण्डेन मृदितः प्रभो॥ 12-14-62(70493)
जम्बूद्वीपेन सदृशः क्रौञ्चद्वीपो नराधिप।
अपरेण महामेरोर्दण्डेन मृदितस्त्वया॥ 12-14-63(70494)
क्रौञ्चद्वीपेन सदृशः शाकद्वीपो नराधिप।
पूर्वेण तु महामेरोर्दण्डेन मृदितस्त्वया॥ 12-14-64(70495)
उत्तरेण महामेरोः शाकद्वीपेन संमितः।
भद्राश्वः पुरुषव्याघ्र दण्डेन मृदितस्त्वया॥ 12-14-65(70496)
द्वीपाश्च सान्तरद्वीपा नानाजनपदाश्रयाः।
विगाह्य सागरं वीर दण्डेन मृदितास्त्वया॥ 12-14-66(70497)
एतान्यप्रतिमेयानि कृत्वा कर्माणि भारत।
न प्रीयसे महाराज पूज्यमानो द्विजातिभिः॥ 12-14-67(70498)
स त्वं भ्रातॄनिमान्दृष्ट्वा प्रतिनन्दस्व भारत।
ऋषभानिव संमत्तान्गजेन्द्रान्गर्जितानिव॥ 12-14-68(70499)
अमरप्रतिमाः सर्वे शत्रुसाहाः परंतपाः।
एकैकोऽपि सुखायैषां मम स्यादिति मे मतिः॥ 12-14-69(70500)
किं पुनः पुरुषव्याघ्राः पतयो मे नरर्षभाः।
समस्तानीन्द्रियाणीव शरीरस्य विचेष्टने॥ 12-14-70(70501)
अनृतं नाब्रवीच्छ्वश्रूः सर्वज्ञा सर्वदर्शिनी।
युधिष्ठिरस्त्वां पाञ्चालि सुखे धास्यत्यनुत्तमे॥ 12-14-71(70502)
इत्वा राजसहस्राणि बहून्याशुपराक्रमः।
तद्व्यर्थं संप्रपश्यामि मोहात्तव जनाधिप॥ 12-14-72(70503)
येषामुन्मत्तको ज्येष्ठः सर्वे तेऽप्यनुसारिणः।
तवोन्मादान्महाराजसोन्मादाः सर्वपाण्डवाः॥ 12-14-73(70504)
यदि हि स्युरनुन्मत्ता भ्रातरस्ते नराधिप।
बद्ध्वा त्वां नास्तिकैः सार्धं प्रशासेयुर्वसुंधराम्॥ 12-14-74(70505)
कुरुते मूढ एवं हि यः श्रेयो नाधिगच्छति।
धूपैरञ्जनयोगैश्च नस्यकर्मभिरेव च॥ 12-14-75(70506)
`उन्मत्तिरपनेतव्या तव राजन्यदृच्छया।'
भेषजैः स चिकित्स्यः स्याद्य उन्मार्गेण गच्छति॥ 12-14-76(70507)
साहं सर्वाधमा लोके स्त्रीणां भरतसत्तम।
तथा विनिकृता पुत्रैर्याऽहमिच्छामि जीवितुम्॥ 12-14-77(70508)
धृतराष्ट्रसुता राजन्नित्यमुत्पथगामिनः।
तादृशानां वधे दोषं नाहं पश्यामि कर्हिचित्॥ 12-14-78(70509)
इमांश्चोशनसा गीताञ्श्लोकाञ्श्रृणु नराधिप॥ 12-14-79(70510)
आत्महन्ताऽर्थहन्ता च बन्धुहन्ता विषप्रदः।
अकारणेन हन्ता च यश्च भार्यां परामृशेत्॥ 12-14-80(70511)
निर्दोषं वधमेतेषां षण्णामप्याततायिनाम्।
ब्रह्मा प्रोवाच भगवान्भार्गवाय महात्मने॥ 12-14-81(70512)
ब्रह्मक्षत्रविशां राजन्सत्पथे वर्तिनामपि।
प्रसह्यागारमागम्य हन्तारं गरदं तथा॥ 12-14-82(70513)
अभक्ष्यापेयदातारमग्निदं च निशातयेत्।
मार्ग एष महीपानां गोब्राह्मणवधेषु च॥ 12-14-83(70514)
केशग्रहे च नारीणामपि युध्येत्पितामहम्।
ब्रह्माणं देवदेवेशं किं पुनः पापकारिणम्॥ 12-14-84(70515)
गोब्राह्मणार्थे व्यसने च राज्ञां राष्ट्रोपमर्दे स्वशरीरहेतोः।
स्त्रीणां च विक्रुष्टरुतानि श्रुत्वा विप्रोऽपि युध्येत महाप्रभावः॥ 12-14-85(70516)
धर्माद्विचलितं विप्रं निहन्यादाततायिनम्।
तस्यान्यत्र वधं विद्वान्मनसाऽपि न चिन्तयेत्॥ 12-14-86(70517)
गोब्राह्मणवधे वृत्तं मन्त्रत्राणार्थमेव च।
निहन्यात्क्षत्रियो विप्रं स्वकुटुम्बस्य चाप्तये॥ 12-14-87(70518)
तस्करेण नृशंसेन धर्मात्प्रचलितेन च।
क्षत्रबन्धुः परं शक्त्या युध्येद्विप्रेण संयुगे॥ 12-14-88(70519)
आततायिनमायान्तमपि वेदान्तपारगम्।
जिघांसन्तं जिघांसीयान्न तेन भ्रूणहा भवेत्॥ 12-14-89(70520)
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽप्यन्त्यजोपि वा।
न हन्याद्ब्राह्मणं शान्तं तृणेनापि कदाचन॥ 12-14-90(70521)
ब्राह्मणायावगुर्याद्यः स्पृष्ट्वा गुरुतरं महत्।
वर्षाणां त्रिशतं पापः प्रतिष्ठां नाधिगच्छति॥ 12-14-91(70522)
सहस्राणि च वर्षाणि निहत्य नरके पतेत्।
तस्मान्नैवावगुर्याद्धि नैव शस्त्रं निपातयेत्॥ 12-14-92(70523)
शोणितं यावतः पांसून्गृह्णातीति हि धारणा।
तावतीः स समाः पापो नरके परिवर्तते॥ 12-14-93(70524)
त्वगस्थिभेदं विप्रस्य यः कुर्यात्कारयेत वा।
ब्रह्महा स तु विज्ञेयः प्रायश्चित्ती नराधमः॥ 12-14-94(70525)
श्रोत्रियं ब्राह्मणं हत्वा तथाऽऽत्रेयीं च ब्राह्मणीम्।
चतुर्विशतिवर्षाणि चरेद्ब्रह्महणो व्रतम्॥ 12-14-95(70526)
द्विगुणां ब्रह्महत्येयं सर्वैः प्रोक्ता महर्षिभिः।
प्रायश्चित्तमकुर्वाणं कृताङ्कं विप्रवासयेत्॥ 12-14-96(70527)
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं वा घातयेन्नृपः।
ब्रह्मघ्नं तस्करं चैव माभूदेवं चरिष्यति॥ 12-14-97(70528)
छित्त्वा हस्तौ च पादौ च नासिकोष्ठौ च भूपतिः।
ब्रह्मघ्नं चोत्तमं पापं नेत्रोद्धारेण योजयेत्॥ 12-14-98(70529)
शूद्रस्यैव स्मृतो दण्डस्तद्वद्राजन्यवैश्ययोः।
प्रायश्चित्तमकुर्वाणं ब्राह्मणं तु प्रवासयेत्॥ 12-14-99(70530)
क्षत्रियं वैश्यशूद्रौ च शस्त्रेणैव च घातयेत्।
ब्रह्मघ्नान्ब्राह्मणात्राजा कृताङ्कान्विप्रवासयेत्॥ 12-14-100(70531)
विकलेन्द्रियांस्त्रिवर्णांश्च चण्डालैः सह वासयेत्।
तैश्च यः संपिबेत्कश्चित्स पिबन्ब्रह्महा भवेत्॥ 12-14-101(70532)
प्रेतानां न च देयानि पिण्डदानानि केनचित्॥ 12-14-102(70533)
कृष्णवर्णा विरूपा च निर्णीता लम्बमूर्धजा।
दुनोत्यदृष्ट्वा कर्तारं ब्रह्महत्येति तां विदुः॥ 12-14-103(70534)
ब्रह्मघ्नेन पिबन्तश्च विप्रा देशाः पुराणि च।
अचिरादेव पीड्यन्ते दुर्भिक्षव्याधितस्करैः॥ 12-14-104(70535)
ब्राह्मणं पापकर्माणं विप्राणामाततायिनम्।
क्षत्रियं वैश्यशूद्रौ च नेत्रोद्धारेण योजयेत्॥ 12-14-105(70536)
दुर्बलानां बलं राजा बलिनो ये च साधवः।
बलिनां दुर्बलानां च पापानां मृत्त्युरिष्यते॥ 12-14-106(70537)
सदोषमपि यो हन्यादश्राव्य जगतीपते।
दुर्बलं बलवन्तं वा स पराजयमर्हति॥ 12-14-107(70538)
राजाज्ञां प्राड्विवाकं च नेच्छेद्यच्चापि निष्पतेत्।
साक्षिणं साधुवाक्यं च जितं तमपि निर्दिशेत्॥ 12-14-108(70539)
बन्धनान्निष्पतेद्यच्च प्रतिभूर्न ददाति च।
कुलजश्च धनाढ्यश्च स पराजयमर्हति॥ 12-14-109(70540)
राजाज्ञया समाहूतो यो न गच्छेत्सभां नरः।
बलवन्तमुपाश्रित्य सायुधः स पराजितः॥ 12-14-110(70541)
तं दण्डेन विनिर्जित्य महासाहसिकं नरम्।
वियुक्तदेहसर्वस्वं परलोकं विसर्जयेत्॥ 12-14-111(70542)
मृतस्यापि न देयानि पिण्डदानानि केनचित्।
दत्त्वा दण्डं प्रयच्छेत मध्यमं पूर्वसाहयम्॥ 12-14-112(70543)
कुलस्त्रीव्यभिचारं च राष्ट्रस्य च विमर्दनम्।
ब्रह्महत्यां च चौर्यं च राजद्रोहं च पञ्चमम्॥ 12-14-113(70544)
युद्धादन्यत्र हिंसायां सुरापस्य च कीर्तने।
महान्तं गुरुतल्पे च मित्रद्रोहे च पातकम्॥ 12-14-114(70545)
न कथंचिदुपेक्षेत महासाहसिकं नरम्।
सर्वस्वमपहृत्याशु ततः प्राणैर्वियोजयेत्॥ 12-14-115(70546)
त्रिषु वर्णेषु यो दण्डः प्रणीतो ब्रह्मणा पुरा।
महासाहसिकं विप्रं कृताङ्कं विप्रवासयेत्॥ 12-14-116(70547)
साहस्रो वा भवेद्दण्डः काञ्चनो देहनिष्क्रिया।
चतुर्णामपि वर्णानामेवमाहोशना कविः॥ 12-14-117(70548)
नारीणां बालवृद्धानां गोपतेश्च महामतिः।
पापानां दुर्विनीतानां प्राणान्तं च बृहस्पतिः।
दण्डमाह महाभाग सर्वेषामाततायिनाम्॥ 12-14-118(70549)
सर्वेषां पापबुद्धीनां पापकर्मैव क्वुर्वताम्।
धृतराष्ट्रस्य पुत्राणां दण्डो निर्दोष इष्यते।
सौबलस्य च दुर्बुद्धेः कर्णस्य च दुरात्मनः॥ 12-14-119(70550)
पश्यतां चैव शूराणां याऽहं द्यूते सभां तदा।
रजस्वला समानीता भवतां पश्यतां नृप।
वाससैकेन संवीता तव दोषेण भूपते॥ 12-14-120(70551)
माभूद्धर्मविलोपस्ते धृतराष्ट्रकुलक्षयात्।
क्रोधाग्निना तु दग्धं च सपशुद्रव्यसंचयम्॥ 12-14-121(70552)
साऽहमेवंविधं दुःखं संप्राप्ता तव हेतुना।
आदित्यस्य प्रसादेन न च प्राणैर्वियोजिता॥ 12-14-122(70553)
रक्षिता देवदेवेन जगतः कालहेतुना।
दिवाकरेण देवेन विवस्त्रा न कृता तदा'॥ 12-14-123(70554)
एतेषां यतमानानां न मेऽद्य वचनं मृषा।
त्वं तु सर्वां महीं त्यक्त्वा कुरुषे स्वयमापदम्॥ 12-14-124(70555)
यथाऽऽस्तां संमतौ राज्ञां पृथिव्यां राजसत्तम्।
मांधाता चाम्बरीषश्च तथा राजन्विराजसे॥ 12-14-125(70556)
प्रशाधि पृथिवीं देवीं प्रजा धर्मेण पालयन्।
सपर्वतवनद्वीपां मा राजन्विमना भव॥ 12-14-126(70557)
यजस्व विविधैर्यज्ञैर्युध्यस्वारीन्प्रयच्छ च।
धनानि भोगान्वासांसि द्विजातिभ्यो नृपोत्तम॥ ॥ 12-14-127(70558)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुर्दशोऽध्यायः॥ 14॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-14-6 स्तोककाश्चातका वावाश्यमानाः पुनः पुनः क्रन्दन्तः॥ 12-14-7 उपपन्नेन युक्तियुक्तेन॥ 12-14-9 सर्वकामानां सर्वैरर्थैः॥ 12-14-13 क्लीबोऽधीरः। अविपाला इवासत इति. ट. ड. पाठः। वत्सपाला इवासत इति थ. पाठः॥ 12-14-57 प्रतिषेधो दण्डो राज्यान्निर्वासनं वा॥ 12-14-58 दानं आदानं च ते॥ 12-14-59 संकोचेन याञ्चया॥ 12-14-63 अपरेण पश्चिमतः 12-14-64 क्रौञ्चद्वीपादिवशीकरणं सिद्धद्वारा राजसूये॥ 12-14-73 सर्वे तेप्यवमानिता इति ट. ड. द. पठः॥ 12-14-75 नस्यकर्म नासाद्वारा भेषजग्रहणम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|